పుట:Neti-Kalapu-Kavitvam.pdf/29

వికీసోర్స్ నుండి
ఈ పుటను అచ్చుదిద్దలేదు

________________

Xxx "अपि नाम निवर्गेऽस्मिन् सेवेतोत्तरबाधकम् । पूर्वस्य तु प्रधानत्वन्न सेव्यः पूर्वबाधकः" || इत्यभियुक्तोक्तिः कामस्य धर्माबाधकत्वमेवोपदिशति. धमांधर्मयोरुभयोरपि स्पर्शः ययोर्न विद्यते तावर्थकामौ न संम्भवत एव. ननु कलाप्रसङ्गे. धर्मप्रशंसा न कर्तव्या क्रियतां सा कृतिस्मृत्यादिविचारे, अन्न तु आनन्दवैशिष्ट्य मेव प्रधानमिति चेन्मैवम्. केवल विनोदफलका अपि कलाविशेषास्तावदेव उपादीयन्ते यावक्ते मनुष्याणां दूष्यगुणान् न तोषयन्ति. यदि कला मानुषीः प्राकृत चित्तवृत्ती: संस्कर्तुमपि न पारयेत् मन्दप्रयोजना सती सा क्षुद्रकोटावेव प्रविशेत्. यदि संस्कर्तुं पारयति तर्हि तत्न धर्मप्रसक्तिं वारयितुं कः शक्नुयादित्यलं बहुना. विस्तरसत्वग्रे वक्ष्यते. ___ आधुनिककविता प्रायेण उदात्तप्रयोजनेन हीनैव दृश्यते. कालिदासादीनां. कृतीरलंकुर्वाणस्य स्वल्पवचः प्रतिपादितार्थ भूयस्त्वस्य रीति रिदानींतनानां कृतिपुमृग्या, अस्फुटस्वल्पार्थवच्छब्दबाहुल्यमेव आधुनिककाव्येषु प्रायः उपलभामहे. रघुवंशकर्तृप्रभृतिषु यद्विशिष्टलक्षणत्वेन नित्यधर्मद्रष्टुत्वं जागर्ति तदाधुनिकसंदर्भप्रणेतृषु नैव लक्ष्यते. समीचीनच्छन्दोनियमातिक्रमात्, अक्षर मैत्रीसंपादनस्यैव अवश्यकार्यत्वाच्य, आन्ध्राणां पद्यमप्यपथ एव चरति. आधुनिककाव्येषु शृङ्गारः प्रायेण अनुचिततां नति इति व्यक्ततरं ज्ञायते. आधुनिक कृतिषु भावकाव्यमिति कश्चन नूतनः काव्यभेदः उपलभ्यत इति केचित्. तदयुक्तम्. भारतवर्षीयसाहित्ये हि भावध्वनिः प्रसिद्धः सौन्दर्यलहर्यादीनि भावकाव्यान्येव. यूरोपीयलिरिक्सन्दर्भापेक्षया भारतवर्षीयभावकाव्यं प्रस्फुट लक्षणं भाति. शिष्टं निरूपयिष्यते. आधुनिककवितायां विज्ञानपरिणती लुप्तप्राये. ईदानींतनकाव्येषु प्रायेण यूरोपीयादिसरण्यनुकरणं पश्यामः, मद्रास्विश्वविद्यालयस्य तत्प्रतिबिम्बसदृशस्य आन्ध्रविश्वविद्यलयस्य च विद्यक्रमे, भारतवर्षीयविज्ञानप्रबोधहेतूनां उचितसंस्थितेरभावात् विज्ञानपरिणत्योः आधुनिककृतिषु प्रायः क्षयः संप्राप्त इति स्पष्टं जानीमहे. विज्ञानस्तब्धतादूरीकरणाय इदानीं आन्ध्राणां य आरम्भः स अतीव श्लाघ्यः, किं च क्षालनाय पुनर्नवत्वाय च शुद्ध जले अलभमानेन, पङ्कानिर्गतेनेव क्लेशः अनुभूयते.